1. अथ योगानुशासनम् !१!
2. योगश्चित्त वृत्तिनिरोधः
!२!
3. तदा द्रष्टुः
स्वरूपेवस्थनम् !३!
4. वृत्ति सारूप्यमितरत्र
!४!
5. वृत्तयः पञ्चतय्यः
क्लिष्टाक्लिष्टाः !५!
6. प्रमाणविपर्ययविकल्पनिद्रास्मृतयः !६!
7. प्रत्यक्षानुमानागमाः
प्रमाणानि !७!
8. विपर्ययो मिथ्याग्यानंतद्रूपपप्रतिष्ठम्
!८!
9. शब्दज्ञानानुपती
वस्तुशून्यो विकल्पः !९!
10. अभावप्रत्ययालम्बना
वृत्तिर्निद्रा !१०!
11. अनुभूतविषयासंप्रमोषः
स्मृतिः !११!